सङ्कटास्तुतिः
सदावृन्दारकोवृन्दा-ऽऽनन्द-सन्दोह-दायकम् ।
अमन्दमङ्गलागारं वन्दे शङ्करनन्दनम् ॥१॥
अमन्दमङ्गलागारं वन्दे शङ्करनन्दनम् ॥१॥
किं कार्यं कठिनं कुतः परिभवः कुत्रापवादाद् भयं
किं मित्रं न हि किन्नु राजसदनं गम्यं न विद्या च का ।
किं वाऽन्याज्जगतीतले प्रवद यत्तेषामसम्भावितं
येषां हृतकमले सदा वसित सा तोषप्रदां सङ्कटा ॥२॥

महिषासुरमर्दिनी स्तोत्र
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते ।
गिरिवरविन्ध्य-शिरोऽधि निवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठ-कुटुम्बिनि भूदिकुटुम्बिनि भूतिकृते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुख-मर्षिणि हर्षरते ।
त्रिभुवनपोषिणि शङ्करतोषिणि कल्मषमोषिणि घोषरते ।
दनुजनिरोषिणि दुर्मदशोषिणि दुर्मुनिरोषिणि सिन्धुसुते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२॥

अयि जगदम्ब कदम्बवन-प्रियवासिनि तोषिणि हासरते ।
शिखर-शिरोमणि-तुङ्गहिमालय-शृङ्गनिजालय-मध्यगते ।
मधुमधुरे मधु-कैटभ-गञ्जिनि महिषविदारिणि रासरते ।
जय जय हे महिषासुरमर्दिनी रम्यकपर्दिनि शैलसुते ॥३॥

अयि निजहुंकृति-मात्रनिराकृत-धूम्रविलोचन-धुम्रशते ।
समरविशोषित-रोषित-शोणित-बीजसमुद्भव-बीजलते ।
शिव-शिव शुम्भ-निशुम्भ-महाहव-तर्पित-भूत-पिशाचरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥४॥

अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्तित-शुण्ड-गजाधिपते ।
निजभुजदण्ड-निपातितचण्ड-विपाटितमुण्ड-भटाधिपते ।
रिपुगजगण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥५॥

धनुरनुषङ्ग-रणक्षणसङ्ग-परिस्फुरदङ्ग-नटत्कटके ।
कनक-पिशङ्ग-पृषत्कनिषङ्ग-रसद्भटशृङ्ग-हताबटुके ।
हतचतुरङ्गबल-क्षितिरङ्ग-घटद्-बहुरङ्ग-रटद्-बटुके ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥६॥

अयि रणदुर्मद-शत्रुबधाधुर-दुर्धर-निर्भर-शक्तिभृते ।
चतुर-विचार-धुरीण-महाशयदूतकृत-प्रमथाधिपते ।
दुरित-दुरीह-दुराशय-दुर्मति-दानवदूत-दूरन्तगते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥७॥

अयि शरणागत-वैरिवधूजन-वीरवराभय-दायिकरे ।
त्रिभुवनमस्तक-शूलविरोधि-शिरोधिकृतामल-शूलकरे ।
दुमिरदुमितामर-दुन्दुभिनाद-मुहुर्मुखरीकृत-दिनकरे ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥८॥

सुरललना-ततथेयित-थेयित-थाभिनययोत्तर-नृत्यरते ।
कृतकुकुथा-कुकुथोदि-डदाडिक-तालकुतूहल-गानरते ।
धुधुकुट-धूधुट-धिन्धि-मितध्वनि-धीर मृदङ्ग-निनादरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥९॥

जय जय जाप्यजये जयशब्द-परस्तुति-तत्पर-विश्वनुते ।
झणझण-झिंझिम-झिंकृत-नूपुर-शिञ्जित-मोहित-भूतपते ।
नटितनटार्ध-नटीनटनायक-नाटन-नाटित-नाट्यरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१०॥

अयि सुमनः सुमनः सुमनः सुमनः सुमनोरमकान्तियुते ।
श्रितरजनी-रजनी-रजनी-रजनी-रजनीकर वक्त्रभृते ।
सुनयन-विभ्रमर-भ्रमर-भ्रमर-भ्रमर-भ्रमराभिदृते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥११॥

महित-महाहव-मल्लमतल्लिक-वल्लिक-रल्लित-भल्लिरते ।
विरचितवल्लि-कपालिक-पल्लिक-झिल्लिक-भिल्लिकवर्गवृते ।
श्रुतकृतफुल्ल-समुल्लसितारुण-तल्लज-पल्लव-सल्ललिते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१२॥

अयि सुदतीजन-लालस-मानस-मोहन-मन्थरराजसुते ।
अविरल-गण्ड-गलन्-मदमेदर-मत्त-मतङ्गजराजगते ।
त्रिभुवन-भूषण-भूत-कलानिधिरूप-पयोनिधिराजसुते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१३॥

कमलदलामल-कोमलकान्ति-कलाकलितामल-भालतले ।
सकल-विलास-कलानिलय-क्रमकेलिचलत्-कलहंसकुले ।
अलिकुलसंकुल-कुन्तलमण्डल-मौलिमिलद्-बकुलालिकुले ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१४॥

करमुरलीरव-वर्जित-कूजित-लज्जित-कोकिल-मनुमते ।
मिलित-मिलिन्द-मनोहरगुञ्जित-रञ्जित-शैलनिकुञ्जगते ।
बिजगण-भूतमहाशबरीगण-रङ्गणसम्भृत-केलिरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१५॥

कटितटपीत-दुकूलविचित्र-मयूख-तिरस्कृत-चण्डरुचे ।
जितकनकाचल-मौलिमदोर्जित-गर्जितकुञ्जर-कुम्भकुचे ।
प्रणत-सुराऽसुर-मौलिमणि-स्फुरदंशुलसन्नखचन्द्ररुचे ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१६॥

विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते ।
कृतसुरतारक-सङ्गरतारक-सङ्गरतारक-सूनुनुते ।
सुरथसमाधि-समानसमाधि-समानसमाधि-सुजाप्यरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१७॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे ।
अयि कमले कमलानिलये कमलानियः स कथं न भवेत् ।
तव पदमेव परं पदमस्त्विति शीलयतो मम किं न शिवे ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१८॥

कनकलसत्-कलशीकलजलैरनुषिञ्चति तेऽङ्गणरङ्गभुवम् ।
भजति स किं न शचीकुचकुम्भ-नटीपरिरम्भ-सुखानुभवम् ।
तव चरणं शरणं करवाणि सुवाणि पथं मम देहि शिवम् ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१९॥

तव विमलेन्दुकलं वदनेन्दुमलं वदनेन्दुमलं कलयन्ननुकूलयते ।
किमु पुरुहूत-पुरीन्दमुखी-सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवमानधने भवती कृपया किमु न क्रियते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२०॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवतिव्यमुमे ।
अयि जगतो जननीति यथाऽसि मयाऽसि तथाऽनुमतासि रमे ।
यदुचितमत्र भवत्पुरगं कुरु शाम्भवि देवि दयां कुरु मे ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥२१॥

स्तुतिमिमां स्तिमितः सुसमाधिना नियमतो यमतोऽनुदिनं पठते ।
परमया रमया स निषेव्यते परिजनोऽरिजनोऽपि च तं भजेत् ॥२२॥

।। इति सङ्कटास्तुतिः समाप्ता ।।